Sukta 1.160
स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया । धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥
स वह्नि॑: पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ । धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥
sa vahníḥ putráḥ pitróḥ pavítravān puná̄ti dhīró bhúvanāni māyáyā | dhenúṃ ca pṛ́śniṃ vṛ́ṣabhaṃ surétasaṃ viśvā́hā śukráṃ páyo asya dhukṣata ||
ଦିବ୍ୟ ଅଗ୍ନିର ବାହକ, ସେଇ ଦୁଇ ପିତୃମାତୃଙ୍କ ପୁତ୍ର, ପବିତ୍ରତାଧାରୀ ଧୀର—ମାୟାର ଶକ୍ତିରେ ଭୁବନମାନଙ୍କୁ ପୁନୀତ କରେ। ତାହାଠାରୁ ସଦା ଦୋହାଯାଏ ଉଜ୍ଜ୍ୱଳ, ଶୁଭ୍ର ପୟ (ପୋଷକ ରସ)—ସମୃଦ୍ଧିର ଧେନୁରୁ, ପୃଶ୍ନି (ଚିତ୍ରିତ)ରୁ, ଏବଂ ବୀଜ-ସମୃଦ୍ଧ ପ୍ରବଳ ବୃଷଭରୁ।
सः । वह्निः॑ । पु॒त्रः । पि॒त्रोः । प॒वित्र॑ऽवान् । पु॒नाति॑ । धीरः॑ । भुव॑नानि । मा॒यया॑ । धे॒नुम् । च॒ । पृश्नि॑म् । वृ॒ष॒भम् । सु॒ऽरेत॑सम् । वि॒श्वाहा॑ । शु॒क्रम् । पयः॑ । अ॒स्य॒ । धु॒क्ष॒त॒ ॥सः । वह्निः । पुत्रः । पित्रोः । पवित्रवान् । पुनाति । धीरः । भुवनानि । मायया । धेनुम् । च । पृश्निम् । वृषभम् । सुरेतसम् । विश्वाहा । शुक्रम् । पयः । अस्य । धुक्षत ॥saḥ | vahniḥ | putraḥ | pitroḥ | pavitra-vān | punāti | dhīraḥ | bhuvanāni | māyayā | dhenum | ca | pṛśnim | vṛṣabham | su-retasam | viśvāhā | śukram | payaḥ | asya | dhukṣata