Sukta 1.139
ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन । वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा ॥
ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः । यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन । वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥
ó ṣū́ ṇo agne śṛṇuhi tvám īḷitó devébhyo bravasi yajñíyebhyo rā́jabhyo yajñíyebhyaḥ | yád dha tyā́m áṅgirobhyo dhenúṃ devā́ adattana | ví tāṃ duhre aryamā́ kartárī sacā́ṃ eṣá tāṃ veda mé sacā́ ||
ଓ ହଁ, ହେ ଅଗ୍ନି, ଆମ କଥା ଶୁଣ—ତୁମେ ଇଳିତ (ଆହ୍ୱାନିତ) ଅଟ; ତୁମେ ଦେବମାନଙ୍କ ପାଇଁ, ଯଜ୍ଞିୟ ରାଜମାନଙ୍କ ପାଇଁ, ଯଜ୍ଞିୟ ଜନମାନଙ୍କ ପାଇଁ ବାଣୀ କହ। ଯେତେବେଳେ ଦେବମାନେ ସେଇ ଧେନୁ (ଗାଈ)କୁ ଅଙ୍ଗିରସମାନଙ୍କୁ ଦେଲେ, ସେତେବେଳେ ଅର୍ୟମା କାର୍ଯ୍ୟରେ, ନିକଟ ସଖ୍ୟତାରେ, ତାକୁ ଦୋହେ। ଏହି ଜଣେ ତାକୁ ଜାଣେ—ମୋ ସହ ସଖ୍ୟତାରେ।
ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः । यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन । वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥ओ इति । सु । नः । अग्ने । शृणुहि । त्वम् । ईळितः । देवेभ्यः । ब्रवसि । यज्ञियेभ्यः । राजभ्यः । यज्ञियेभ्यः । यत् । ह । त्याम् । अङ्गिरःभ्यः । धेनुम् । देवाः । अदत्तन । वि । ताम् । दुह्रे । अर्यमा । कर्तरि । सचा । एषः । ताम् । वेद । मे । सचा ॥o iti | su | ṇaḥ | agne | śṛṇuhi | tvam | īḷitaḥ | devebhyaḥ | bravasi | yajñiyebhyaḥ | rāja-bhyaḥ | yajñiyebhyaḥ | yat | ha | tyām | aṅgiras-bhyaḥ | dhenum | devāḥ | adattana | vi | tām | duhre | aryamā | kartari | sacā | eṣaḥ | tām | veda | meca | sacā