Sukta 1.130
सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति । उशना यत्परावतोऽजगन्नूतये कवे । सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥
सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति । उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे । सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणि॑: ॥
sū́raś cakráṃ prá vṛhat jā́ta ójasā prá pitvé vā́cam aruṇó muṣāyati īśāná ā́ muṣāyati | uśánā yát parāváto ájagan ūtáye kavé | sumnā́ni víśvā mánuṣā-iva turváṇir áhā víśva-iva turváṇiḥ ||
ସୂର୍ଯ୍ୟଜ, ଓଜସ୍ବୀ, ନିଜ ବଳରେ ଚକ୍ରକୁ ଆଗେଇ ନେଇଯାଏ; ଅରୁଣ (ଲାଲିମାମୟ) ପାନ ପାଇଁ (ପ୍ରପିତ୍ୱେ) ବାଚ୍/ବାଣୀକୁ ଚୋରାଇନେଉଛି; ଈଶାନ (ଅଧିପତି) ତାହାକୁ ନିଜ ଅଧିକାରରେ ନେଇନେଉଛି। ଯେତେବେଳେ ଉଶନା (କବି ଉଶନସ୍) ପରାବତ—ଦୂର ପାରରୁ—ଋଷିଙ୍କ ସହାୟତା ପାଇଁ ଆସିଲେ, ସେତେବେଳେ ସମସ୍ତ ସୁମ୍ନ (କୃପା-ବର) ଆସିଲା—ଦିନକୁ ଦିନ—ମନୁଷ୍ୟ-ଦାନ ପରି, ତଥାପି ସର୍ବବ୍ୟାପୀ ବେଗରେ ଆଣିଦେବା ତୁର୍ବଣି ସମାନ।
सूरः॑ । च॒क्रम् । प्र । वृ॒ह॒त् । जा॒तः । ओज॑सा । प्र । पि॒त्वे । वाच॑म् । अ॒रु॒णः । मु॒षा॒य॒ति॒ । ई॒शा॒नः । आ । मु॒षा॒य॒ति॒ । उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । अज॑गन् । ऊ॒तये॑ । क॒वे॒ । सु॒म्नानि॑ । विश्वा॑ । मनु॑षाऽइव । तु॒र्वणिः । अहा॑ । विश्वा॑ऽइव । तु॒र्वणिः॑ ॥सूरः । चक्रम् । प्र । वृहत् । जातः । ओजसा । प्र । पित्वे । वाचम् । अरुणः । मुषायति । ईशानः । आ । मुषायति । उशना । यत् । परावतः । अजगन् । ऊतये । कवे । सुम्नानि । विश्वा । मनुषाइव । तुर्वणिः । अहा । विश्वाइव । तुर्वणिः ॥sūraḥ | cakram | pra | vṛhat | jātaḥ | ojasā | pra | pitve | vācam | aruṇaḥ | muṣāyati | īśānaḥ | ā | muṣāyati | uśanā | yat | parāvataḥ | ajagan | ūtaye | kave | sumnāni | viśvā | manuṣāiva | turvaṇiḥ | ahā | viśvāiva | turvaṇiḥ