Sukta 1.130
एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः । हवामहे त्वा वयं प्रयस्वन्तः सुते सचा । पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥
एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः । हवा॑महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा॑ । पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥
éndra yā́hy úpa naḥ parāváto nā́yam ácchā vidáthānīva sátpatir ástam rājéva sátpatiḥ | hávām ahe tvā vayáṁ práyasvantaḥ suté sácā | putrā́so ná pitáraṁ vā́jasātaye maṁhíṣṭhaṁ vā́jasātaye ||
ହେ ଇନ୍ଦ୍ର, ପରାବତରୁ (ଦୂର ଲୋକରୁ) ଆମ ପାଖକୁ ନିକଟେ ଆସ; ସତ୍ପତି ପରି, ରାଜା ଯେପରି ନିଜ ଗୃହକୁ ଆସେ, ସେପରି ଏହି ଆମ ବିଦଥ (ଯଜ୍ଞସଭା)କୁ ଆସ। ଆମେ ତୁମକୁ ହବାହେ—ଅର୍ପଣରେ ସମୃଦ୍ଧ ଆମେ, ପିଷିତ ସୋମ ସହିତ। ପୁତ୍ରମାନେ ଯେପରି ପିତାଙ୍କୁ ଡାକନ୍ତି—ବାଜସାତି (ବଳ-ସମୃଦ୍ଧି) ଲାଭ ପାଇଁ, ହେ ଅତିଦାନଶୀଳ, ବାଜସାତି ଲାଭ ପାଇଁ।
आ । इ॒न्द्र॒ । या॒हि॒ । उप॑ । नः॒ । प॒रा॒ऽवतः । न । अ॒यम् । अच्छ॑ । वि॒दथा॑निऽइव । सत्ऽप॑तिः । अस्त॑म् । राजा॑ऽइव । सत्ऽप॑तिः । हवा॑महे । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । सु॒ते । सचा॑ । पु॒त्रासः॑ । न । पि॒तर॑म् । वाज॑ऽसातये । मंहि॑ष्ठम् । वाज॑ऽसातये ॥आ । इन्द्र । याहि । उप । नः । परावतः । न । अयम् । अच्छ । विदथानिइव । सत्पतिः । अस्तम् । राजाइव । सत्पतिः । हवामहे । त्वा । वयम् । प्रयस्वन्तः । सुते । सचा । पुत्रासः । न । पितरम् । वाजसातये । मंहिष्ठम् । वाजसातये ॥ā | indra | yāhi | upa | naḥ | parāvataḥ | na | ayam | accha | vidathāni-iva | sat-patiḥ | astam | rājāiva | sat-patiḥ | havāmahe | tvā | vayam | prayasvantaḥ | sute | sacā | putrāsaḥ | na | pitaram | vāja-sātaye | maṃhiṣṭham | vāja-sātaye