Sukta 1.108
यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः । तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥
यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्य॑: । तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yád ábravaṃ prathamáṃ vāṃ vṛṇānó ’yáṃ sómo ásuraiḥ no vi-hávyāḥ | tā́ṃ satyā́ṃ śraddhā́m abhí ā́ hí yātam áthā sómasya pibatam sutásya ||
ଯେତେବେଳେ, ତୁମମାନଙ୍କୁ ବରି ମୁଁ ପ୍ରଥମେ ଏହିପରି ଘୋଷଣା କଲି: ‘ଏହି ସୋମ ଆମ ପାଇଁ ଆହ୍ୱାନନୀୟ; ବିରୋଧୀ ଅସୁର-ଶକ୍ତିମାନେ ଏହାକୁ ଆମଠାରୁ ବିମୁଖ କରିବେ ନାହିଁ’—ସେହି ସତ୍ୟ ଶ୍ରଦ୍ଧା ପାଖକୁ ଏଠାକୁ ଆସ; ତାପରେ ପିଷିତ (ସୁତ) ସୋମ ପାନ କର।
यत् । अब्र॑वम् । प्र॒थ॒मम् । वा॒म् । वृ॒णा॒नः॑ । अ॒यम् । सोमः॑ । असु॑रैः । नः॒ । वि॒ऽहव्यः॑ । ताम् । स॒त्याम् । श्र॒द्धाम् । अ॒भि । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । अब्रवम् । प्रथमम् । वाम् । वृणानः । अयम् । सोमः । असुरैः । नः । विहव्यः । ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yat | abravam | prathamam | vām | vṛṇānaḥ | ayam | somaḥ | asuraiḥ | naḥ | vi-havyaḥ | tām | satyām | śraddhām | abhi | ā | hi | yātam | atha | somasya | pibatam | sutasya