उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनि॒ः सूर्या॑य त्वा भ्रा॒जाय॑
úd u tyáṁ jātávedasaṁ deváṁ vahanti ketávaḥ | dṛśé víśvāya sū́ryam | upayā́magṛhīto ’si sū́ryāya tvā bhrā́jāya eṣá te yóniḥ sū́ryāya tvā bhrā́jāya
Ke atas, sinar-sinar mengangkat Dewa Jātavedas, untuk dilihat oleh semua—Sūrya. Dengan Upayāma engkau telah diambil bagi Sūrya, bagi seri: inilah rahimmu; bagi Sūrya, bagi seri.
उत् । उ । त्यम् । जात-वेदसम् । देवम् । वहन्ति । केतवः । दृशे । विश्वाय । सूर्यम् । उप-याम-गृहीतः । असि । सूर्याय । त्वा । भ्राजाय । एषः । ते । योनिः । सूर्याय । त्वा । भ्राजाय