नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑:
námo róhitāya sthapátaye vṛkṣā́ṇāṃ pátaye námo námo bhuvantáye vārivaskṛtā́yauṣádhīnāṃ pátaye námo námo mantríṇe vāṇijā́ya kákṣāṇāṃ pátaye námo náma uccáirghoṣāyākrandáyate pattīnā́ṃ pátaye námaḥ
Sembah-hormat kepada Rohita, kepada Sthapati (tukang-agung), kepada Tuhan pepohonan—hormat! Sembah-hormat, sembah-hormat kepada Yang Menjadi, kepada Pemberi laluan-lapang yang membawa kebajikan, kepada Tuhan tumbuh-tumbuhan—hormat! Sembah-hormat, sembah-hormat kepada Sang Penasihat, kepada Sang Pedagang, kepada Tuhan belukar—hormat! Sembah-hormat, sembah-hormat kepada Yang bersuara tinggi, yang menjadikan orang berseru nyaring, kepada Tuhan para pengikut—hormat!
नमः । रोहिताय । स्थपतये । वृक्षाणाम् । पतये । नमः । नमः । भुवन्तये । वारिवस्कृताय । ओषधीनाम् । पतये । नमः । नमः । मन्त्रिणे । वाणिजाय । कक्षाणाम् । पतये । नमः । नमः । उच्चैः-घोषाय । आक्रन्दयते । पत्तीनाम् । पतये । नमः ।