Sukta 10.121
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
prajā́pate ná tvád etā́ny anyó víśvā jātā́ni pári tā́ babhūva | yátkāmās te juhumā́s tán no astu vayáṃ syāma pátayo rayīṇā́m ||
Wahai Prajāpati, tiada selain Engkau yang melingkupi segala kelahiran ini. Apa jua keinginan yang kami persembahkan kepada-Mu dalam nyala api—moga itu menjadi milik kami; moga kami menjadi tuan atas kelimpahan-kelimpahan (rayi).
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ । यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥प्रजापते । न । त्वत् । एतानि । अन्यः । विश्वा । जातानि । परि । ता । बभूव । यत्कामाः । ते । जुहुमः । तत् । नः । अस्तु । वयम् । स्याम । पतयः । रयीणाम् ॥prajāpatena tvad etāny anyo viśvājatāniparitā babhūva | yatkāmās te juhumas tan noastu vayaṃ syāmapatayo rayīṇām