Sukta 10.117
मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥
मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥
mógham ánnaṃ vindate ápra-cetāḥ satyáṃ bravīmi vadhá ít sá tásya | nā́ryamáṇaṃ púṣyati nó sákhāyaṃ kévalāgho bhavati kévalādī ||
Sia-sialah si tidak sedar memperoleh makanan; benar aku berkata—kebinasaanlah bahagiannya. Ia tidak memelihara Aryaman, dan tidak juga seorang sahabat; ia menjadi dosa semata dan pemakan yang menyendiri.
मोघ॑म् । अन्न॑म् । वि॒न्द॒ते॒ । अप्र॑ऽचेताः । स॒त्यम् । ब्र॒वी॒मि॒ । व॒धः । इत् । सः । तस्य॑ । न । अ॒र्य॒मण॑म् । पुष्य॑ति । नो इति॑ । सखा॑यम् । केव॑लऽअघः । भ॒व॒ति॒ । के॒व॒ल॒ऽआ॒दी ॥मोघम् । अन्नम् । विन्दते । अप्रचेताः । सत्यम् । ब्रवीमि । वधः । इत् । सः । तस्य । न । अर्यमणम् । पुष्यति । नो इति । सखायम् । केवलअघः । भवति । केवलआदी ॥mogham | annam | vindate | apra-cetāḥ | satyam | bravīmi | vadhaḥ | it | saḥ | tasya | na | aryamaṇam | puṣyati | no iti | sakhāyam | kevala-aghaḥ | bhavati | kevala-ādī