Sukta 1.140
इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते । यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥
इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒: प्रेयो॑ अस्तु ते । यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥
idám agne sú-dhitaṃ dúḥ-dhitād ádhi priyā́d u cit mánmanaḥ préyo astu te | yát te śukráṃ tanvò rocate śúci ténāsmábhyaṃ vanase rátnam ā́ tvám ||
Ini, wahai Agni, yang tersusun baik bangkit melampaui yang tersusun buruk; bahkan daripada yang tercinta pun, semoga ada bagimu kesukaan budi yang lebih tercinta. Kerana sinar suci nan terang yang memancar dari tubuhmu—dengan itu engkau memenangi untuk kami harta, engkau sendiri membawanya mendekat.
इ॒दम् । अ॒ग्ने॒ । सुऽधि॑तम् । दुःऽधि॑तात् । अधि॑ । प्रि॒यात् । ऊँ॒ इति॑ । चि॒त् । मन्म॑नः । प्रेयः॑ । अ॒स्तु॒ । ते॒ । यत् । ते॒ । शु॒क्रम् । त॒न्वः॑ । रोच॑ते । शुचि॑ । तेन॑ । अ॒स्मभ्य॑म् । व॒न॒से॒ । रत्न॑म् । आ । त्वम् ॥इदम् । अग्ने । सुधितम् । दुःधितात् । अधि । प्रियात् । ऊँ इति । चित् । मन्मनः । प्रेयः । अस्तु । ते । यत् । ते । शुक्रम् । तन्वः । रोचते । शुचि । तेन । अस्मभ्यम् । वनसे । रत्नम् । आ । त्वम् ॥idam | agne | su-dhitam | duḥ-dhitāt | adhi | priyāt | oṃ iti | cit | manmanaḥ | preyaḥ | astu | te | yat | te | śukram | tanvaḥ | rocate | śuci | tena | asmabhyam | vanase | ratnam | ā | tvam