Sukta 1.127
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥
अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् । य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिष॑: ॥
agníṃ hótāraṃ manye dā́svantaṃ vásuṃ sūnúṃ sáhasaḥ jāta-védasaṃ vípraṃ ná jāta-védasam | yá ūrdhváyā svadhvaró devó devā́cyā kṛ́pā | ghṛtásya ví-bhrāṣṭim ánu vaṣṭi śóciṣā́juhvānasya sarpíṣaḥ ||
Aku menganggap Agni sebagai hotar, imam persembahan; sang pemberi, harta yang kaya; putera Sahas (Kekuatan); Jātavedas, yang mengetahui segala kelahiran; sang resi—ya, Jātavedas. Dialah dewa yang yajñanya naik ke atas pada jalan benar miliknya sendiri; dengan kṛpā ilahi para dewa, ia mengikuti dengan nyalanya kilau ghṛta, ketika ia dipersembahkan dengan juhū, dengan sarpis.
अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् । यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा । घृ॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जातवेदसम् । विप्रम् । न । जातवेदसम् । यः । ऊर्ध्वया । सुअध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिषः ॥agnim | hotāram | manye | dāsvantam | vasum | sūnum | sahasaḥ | jāta-vedasam | vipram | na | jāta-vedasam | yaḥ | ūrdhvayā | su-adhvaraḥ | devaḥ | devācyā | kṛpā | ghṛtasya | vi-bhrāṣṭim | anu | vaṣṭi | śociṣā | ājuhvānasya | sarpiṣaḥa