Sarvasara
अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते। प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते। एतत्कोशद्वयसंसक्तं मन आदिचतुर्दशकरणैरात्मा शब्दादिविषयसङ्कल्पादीन् धर्मान् यदा करोति तदा मनोमयः कोश इत्युच्यते। एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते। एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते॥५॥
अन्न-कार्याणाम् । कोशानाम् । समूहः । अन्न-मयः । कोशः । उच्यते । प्राण-आदि-चतुर्दश-वायु-भेदाः । अन्न-मय-कोशे । यदा । वर्तन्ते । तदा । प्राण-मयः । कोशः । इति । उच्यते । एतत्-कोश-द्वय-संसक्तम् । मनः । आदि-चतुर्दश-करणैः । आत्मा । शब्द-आदि-विषय-सङ्कल्प-आदीन् । धर्मान् । यदा । करोति । तदा । मनो-मयः । कोशः । इति । उच्यते । एतत्-कोश-त्रय-संसक्तम् । तत्-गत-विशेष-ज्ञः । यदा । भासते । तदा । विज्ञान-मयः । कोशः । इति । उच्यते । एतत्-कोश-चतुष्टयम् । संसक्तम् । स्व-कारण-अज्ञाने । वट-कणिकायाम् । इव । वृक्षः । यदा । वर्तते । तदा । आनन्द-मयः । कोशः । इति । उच्यते ॥५॥
anna-kāryāṇāṃ kośānāṃ samūho 'nnamayaḥ kośa ucyate | prāṇādi-caturdaśa-vāyu-bhedā annamaya-kośe yadā vartante tadā prāṇamayaḥ kośa ity ucyate | etat-kośa-dvaya-saṃsaktaṃ mana ādi-caturdaśa-karaṇair ātmā śabdādi-viṣaya-saṅkalpādīn dharmān yadā karoti tadā manomayaḥ kośa ity ucyate | etat-kośa-traya-saṃsaktaṃ tad-gata-viśeṣa-jño yadā bhāsate tadā vijñānamayaḥ kośa ity ucyate | etat-kośa-catuṣṭayaṃ saṃsaktaṃ sva-kāraṇa-ajñāne vaṭa-kaṇikāyām iva vṛkṣo yadā vartate tadā ānandamayaḥ kośa ity ucyate ||5||
अन्नापासून उत्पन्न झालेल्या कोशांचा जो समूह आहे, तो अन्नमय कोश म्हणतात. अन्नमय कोशात प्राणादी चौदा प्रकारचे वायुभेद जेव्हा कार्य करतात, तेव्हा तो प्राणमय कोश होय. या दोन कोशांशी संयुक्त आत्मा, मन इत्यादी चौदाशे करणांच्या साहाय्याने, शब्दादी विषयांविषयी संकल्प इत्यादी धर्म जेव्हा करतो, तेव्हा तो मनोमय कोश म्हणतात. या तीन कोशांशी संयुक्त होऊन, त्यांतील विशेषांचे जाणणारे तत्त्व जेव्हा प्रकाशते, तेव्हा तो विज्ञानमय कोश होय. या चारही कोशांशी संयुक्त होऊन, स्वतःच्या कारणाच्या अज्ञानात—जसे वटबीजात वृक्ष—जेव्हा स्थित राहतो, तेव्हा तो आनंदमय कोश म्हणतात॥५॥
The aggregate of the sheaths that are products of food is called the food-made sheath (annamaya kośa). When the fourteen divisions of vital airs beginning with prāṇa operate within the food-made sheath, it is called the vital-made sheath (prāṇamaya kośa). When the Self, conjoined with these two sheaths, by means of the mind and the other fourteen instruments, performs functions such as volition regarding objects like sound, then it is called the mind-made sheath (manomaya kośa). When, conjoined with these three sheaths, the knower of particularities present therein shines forth, then it is called the knowledge-made sheath (vijñānamaya kośa). When, conjoined with these four sheaths, it abides in ignorance of its own cause—like a tree (present) in a banyan seed—then it is called the bliss-made sheath (ānandamaya kośa).