Sarvasara
सत्यं ज्ञानमनन्तं ब्रह्म । सत्यमविनाशि । अविनाशि नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि । ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमुच्यते । अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यमनन्तमित्युच्यते । आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्दसमुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते॥१२॥
सत्यम् । ज्ञानम् । अनन्तम् । ब्रह्म । सत्यम् । अविनाशि । अविनाशि । नाम । देश-काल-वस्तु-निमित्तेषु । विनश्यत्सु । यत् । न । विनश्यति । तत् । अविनाशि । ज्ञानम् । नाम । उत्पत्ति-विनाश-रहितम् । नैरन्तर्यम् । चैतन्यम् । ज्ञानम् । उच्यते । अनन्तम् । नाम । मृद्-विकारेषु । मृद्-इव । स्वर्ण-विकारेषु । स्वर्णम्-इव । तन्तु-विकारेषु । तन्तुः-इव । अव्यक्त-आदि-सृष्टि-प्रपञ्चेषु । पूर्णम् । व्यापकं । चैतन्यम् । अनन्तम् । इति । उच्यते । आनन्दम् । नाम । सुख-चैतन्य-स्वरूपः । अपरिमित-आनन्द-समुद्रः । अवशिष्ट-सुख-स्वरूपः । च । आनन्दः । इति । उच्यते ॥१२॥
satyaṃ jñānam anantaṃ brahma | satyam avināśi | avināśi nāma deśa-kāla-vastu-nimitteṣu vinaśyatsu yan na vinaśyati tad avināśi | jñānaṃ nāmotpatti-vināśa-rahitaṃ nairantaryaṃ caitanyaṃ jñānam ucyate | anantaṃ nāma mṛd-vikāreṣu mṛd iva svarṇa-vikāreṣu svarṇam iva tantu-vikāreṣu tantur ivāvyaktādi-sṛṣṭi-prapañceṣu pūrṇaṃ vyāpakaṃ caitanyam anantam ity ucyate | ānandaṃ nāma sukha-caitanya-svarūpo'parimita-ānanda-samudro'vaśiṣṭa-sukha-svarūpaś cānanda ity ucyate ||12||
ब्रह्म सत्य, ज्ञान आणि अनंत आहे। ‘सत्य’ अविनाशी आहे। ‘अविनाशी’ म्हणजे—देश, काळ, वस्तू व निमित्त नष्ट झाले तरी जे नष्ट होत नाही ते अविनाशी। ‘ज्ञान’ म्हणजे—उत्पत्ती-विनाशरहित, अखंड चैतन्य; त्यालाच ज्ञान म्हणतात। ‘अनंत’ म्हणजे—मृत्तिकेच्या विकारांत मृत्तिका जशी, सुवर्णाच्या विकारांत सुवर्ण जसे, तंतूच्या विकारांत तंतू जसा—अव्यक्तापासून आरंभलेल्या सृष्टी-प्रपंचात पूर्ण व सर्वव्यापक चैतन्य; त्यालाच अनंत म्हणतात। ‘आनंद’ म्हणजे—सुख-चैतन्यस्वरूप, अपरिमित आनंदाचा समुद्र, आणि अवशिष्ट सुखाचे सार; त्यालाच आनंद म्हणतात।
Brahman is truth, knowledge, and infinite. Truth is imperishable. ‘Imperishable’ means: when space, time, objects, and causes perish, that which does not perish is imperishable. ‘Knowledge’ means the continuous consciousness free from origination and destruction; that is called knowledge. ‘Infinite’ means the full, all-pervading consciousness—like clay in clay-modifications, like gold in gold-modifications, like thread in thread-modifications—present throughout the manifested cosmos beginning with the unmanifest; that is called infinite. ‘Bliss’ means: whose nature is happiness-consciousness, an immeasurable ocean of bliss, and the residual essence of happiness; that is called bliss.