Avadhuta
इति य इदमधीते सोऽपि कृतकृत्यो भवति। सुरापानात्पूतो भवति। स्वर्णस्तेयात्पूतो भवति। ब्रह्महत्यात्पूतो भवति। कृत्याकृत्यात्पूतो भवति। एवं विदित्वा स्वेच्छाचारपरो भूयाद् ॐ सत्यमित्युपनिषत्॥३६॥
इति । यः । इदम् । अधीते । सः । अपि । कृत-कृत्यः । भवति । सुरा-पानात् । पूतः । भवति । स्वर्ण-स्तेयात् । पूतः । भवति । ब्रह्म-हत्यात् । पूतः । भवति । कृत्या-अकृत्यात् । पूतः । भवति । एवम् । विदित्वा । स्व-इच्छा-आचार-परः । भूयात् । ॐ । सत्यम् । इति । उपनिषत् ॥ ३६ ॥
iti ya idam adhīte so 'pi kṛtakṛtyo bhavati | surāpānāt pūto bhavati | svarṇasteyāt pūto bhavati | brahmahatyāt pūto bhavati | kṛtyākṛtyāt pūto bhavati | evaṃ viditvā svecchācāraparo bhūyād oṃ satyam ity upaniṣat ||36||
अशा रीतीने जो हा उपदेश अध्ययन करतो तो तो कृतकृत्य होतो. तो सुरापानाच्या दोषापासून शुद्ध होतो; सुवर्णचोरीच्या पापापासून शुद्ध होतो; ब्राह्मणहत्येच्या पापापासून शुद्ध होतो; कृत्या (अभिचार) व अकरणीय कर्मांपासून उत्पन्न पापांपासूनही शुद्ध होतो. असे जाणून तो स्वेच्छाचारात परायण होवो. ॐ—सत्य; ही उपनिषद्॥३६॥
Thus, whoever studies this (teaching) becomes one who has accomplished what is to be accomplished. He becomes purified from drinking intoxicants; he becomes purified from stealing gold; he becomes purified from killing a brāhmaṇa; he becomes purified from (sins arising from) sorcery and from what ought not to be done. Having thus known, one should become devoted to conduct according to one’s own will. Om—Truth: thus is the Upaniṣad.