Avadhuta
तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् । अनुसन्दधदेवायमेवं तृप्यति नित्यशः॥१३॥
तत् । एव । कृत-कृत्यत्वम् । प्रतियोगि-पुरःसरम् । अनुसन्दधत् । एव । अयम् । एवम् । तृप्यति । नित्यशः ॥१३॥
tad eva kṛtakṛtyatvaṃ pratiyogipuraḥsaram | anusandadhad evāyam evaṃ tṛpyati nityaśaḥ ||13||
प्रतियोगी (विपरीत कल्पना) पुढे ठेवून जे कृतकृत्यत्व आहे तेच; असे अनुसंधान करीत हा पुरुष नित्य तृप्त राहतो.
That alone is accomplishedness (kṛtakṛtyatva), preceded by its counter-correlates; reflecting thus, this one is satisfied always.