Amritnada
हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् । मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥२७॥
हृत्-द्वारम् । वायु-द्वारम् । च । मूर्ध-द्वारम् । अतः । परम् । मोक्ष-द्वारम् । बिलम् । च । एव । सुषिरम् । मण्डलम् । विदुः ॥
hṛddvāraṃ vāyudvāraṃ ca mūrdhadvāram ataḥ param | mokṣadvāraṃ bilaṃ caiva suṣiraṃ maṇḍalaṃ viduḥ ||27||
हृदयद्वार, वायुद्वार आणि त्यापलीकडे मूर्धद्वार—असे ते जाणतात। तसेच मोक्षद्वाराला ‘बिल’, ‘सुषिर’ व ‘मंडल’ असेही म्हणतात॥२७॥
They know (these as) the heart-gate, the wind-gate, and beyond that the head-gate; (also) the gate of liberation—namely the ‘cave’, the aperture, the circle.