Amritnada
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥११॥
स-व्याहृतिम् । स-प्रणवाम् । गायत्रीम् । शिरसा । सह । त्रिः । पठेत् । आयत-प्राणः । प्राणायामः । सः । उच्यते ॥
sa-vyāhṛtiṃ sa-praṇavāṃ gāyatrīṃ śirasā saha | triḥ paṭhed āyata-prāṇaḥ prāṇāyāmaḥ sa ucyate ||11||
व्याहृती व प्रणव सहित, ‘शिरस्’ (परिशिष्ट) सह गायत्रीचा त्रिवार जप करावा; प्राण दीर्घ व संयत ठेवून—यालाच प्राणायाम म्हणतात.
With the vyāhṛtis and with the praṇava, (reciting) the Gāyatrī together with the ‘Śiras’ (appendix), one should recite it three times, with the breath extended/regulated; that is called prāṇāyāma.