कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तᳪ समा॑: । ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑
kurvann evéha karmā́ṇi jijīviṣéc chatáṃ samā́ḥ | eváṃ tváyi nā́nyathéto ’stí ná kárma lipyate náre ||
इथेच कर्मे करत करत मनुष्याने शंभर वर्षे जगण्याची इच्छा करावी. तुझ्यामध्ये असेच (विधान) आहे—याखेरीज दुसरा मार्ग नाही; कर्म नराला लिप्त करत नाही.
कुर्वन् । एव । इह । कर्माणि । जिजीविषेत् । शतम् । समाः । एवम् । त्वयि । न । अन्यथा । इतः । अस्ति । न । कर्म । लिप्यते । नरे ।