दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ इन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
de·vám barhír vā́ritīnām de·vám índraṁ vayo·dhásaṁ de·vám de·vám avardhayat | kakúbhā́ chándasendriyáṁ yáśa índre váyo dádhad vasu·váne vasu·dhéyasya vétu yája
दिव्य बर्हिस्—वारितीनाम् (अवरोधकांना दूर ठेवणारे)—याने देव इंद्राला, वयोधस (वीर्यधारक) इंद्राला, वर्धित केले. ककुभा छंदाने (त्याने) इंद्रिय-शक्ती वाढविली; इंद्रामध्ये यश व वीर्य धारण करून, वसु-वने (धनप्राप्तीसाठी), वसु-धेयस्य (धनस्थापनासाठी)—तो (फल) प्राप्त करो; यज (यज्ञ कर)।
दे॒वम् । ब॒र्हिः । वारि॑तीनाम् । दे॒वम् । इन्द्र॑म् । वयः॒धस॑म् । दे॒वम् । दे॒वम् । अ॒व॒र्ध॒य॒त् । क॒कुभा॑ । छन्द॑सा । इन्द्रि॒यम् । यशः॑ । इन्द्रे॑ । वयः॒ । दध॑त् । वसु॒वने॑ । वसु॒धेय॑स्य । वेतु॑ । यज॑