त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रव॑: । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥
tvā́m íd dhi havāmahe sātáu vā́jasya kā́ravaḥ | tvā́m vṛtréṣv indra sát-patim náraḥ tvā́m kā́ṣṭhāsv árvataḥ ||
वाजाच्या विजयासाठी (सातौ) आम्ही गायक निश्चयाने तुलाच हाक मारतो. हे इंद्रा! वृत्र-युद्धांत सत्पति (सज्जनांचा स्वामी) म्हणून नर तुला पुकारतात; आणि धावकाच्या ध्येय-स्थानी (काष्ठासु)ही तुलाच पुकारतात.
त्वाम् । इत् । हि । ह॒वा॒म॒हे॒ । सा॒तौ । वाज॑स्य । का॒रवः॑ । त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्-प॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ।