शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कवि॒ᳪश ऋ॒भव॑ स्तु॒ताः । वै॒रा॒जेन॑ श्रि॒या श्रिय॑ᳪ ह॒विरिन्द्रे॒ वयो॑ दधुः
śāradéna ṛtúnā devā́ ekaviṃśá ṛ́bhavaḥ stutā́ḥ | vairājéna śriyā́ śríyam havír índre váyo dadhúḥ
शारद ऋतूने, देव—ऋभु—एकविंश (एकवीस-गुण) स्तोमात स्तुत झाले. वैराज (साम) द्वारा, श्रीसाठी श्रीसह, त्यांनी हवि—वयः (प्राण-बल)—इंद्रामध्ये स्थापित केले.
शा॒र॒देन॑ । ऋ॒तुना॑ । दे॒वाः । ए॑क-वि॒ᳪशे । ऋ॒भवः॑ । स्तु॒ताः । वै॒रा॒जेन॑ । श्रि॒या । श्रिय॑म् । ह॒विः । इन्द्रे॑ । वयः॑ । दधुः