सं वां॒ मना॑ᳪसि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि
saṃ vā́ṃ manā́ṃsi saṃ vratā́ samu cittā́ny ákaram | ágne purīṣyādhipā́ bhava tváṃ na íṣam ū́rjaṃ yájamānāya dhehi
मी तुमची मने एकत्वात, तुमची व्रते एकत्वात, आणि तुमची चित्तेही परस्पर जुळवून एक केली आहेत. हे अग्ने, तू पुरीष्य अधिपती हो; यजमानासाठी आम्हांस इष (पोषण) व ऊर्ज (बल) प्रदान कर.
सम् । वाम् । मनांसि । सम् । व्रता । समु । चित्तानि । आ । अकरम् । अग्ने । पुरीष्य-अधिपाः । भव । त्वम् । नः । इषम् । ऊर्जम् । यजमानाय । धेहि ।