Sukta 8.66
त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि । त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥
त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि । त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥
tváṃ no asyā́ ámater utá kṣúdhó ’bhíśaster áva spṛdhi | tváṃ na ūtī́ táva citráyā dhiyā́ śíkṣā śacíṣṭha gātuvít ||
हे (इंद्रा)! या असहायतेतून, भुकेतून, आणि शत्रूंच्या आरोप-आक्रमणातून (अभिशस्ति) आम्हांला वाचव. तूच आमची ऊती (रक्षण-सहाय्य) आहेस; तुझ्या चित्रमय, प्रकाशमय धिया (बुद्धी) ने आम्हांला शिकव—हे शचिष्ठ (अत्यंत समर्थ), हे गातुवित् (मार्ग-ज्ञाता), आम्हांला ऋत (सत्य-नियम) यांच्या योग्य मार्गात प्रवृत्त कर.
त्वम् । नः॒ । अ॒स्याः । अम॑तेः । उ॒त । क्षु॒धः । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒धि॒ । त्वम् । नः॒ । ऊ॒ती । तव॑ । चि॒त्रया॑ । धि॒या । शिक्ष॑ । श॒चि॒ष्ठ॒ । गा॒तु॒ऽवित् ॥त्वम् । नः । अस्याः । अमतेः । उत । क्षुधः । अभिशस्तेः । अव । स्पृधि । त्वम् । नः । ऊती । तव । चित्रया । धिया । शिक्ष । शचिष्ठ । गातुवित् ॥tvam | naḥ | asyāḥ | amateḥ | uta | kṣudhaḥ | abhi-śasteḥ | ava | spṛdhi | tvam | naḥ | ūtī | tava | citrayā | dhiyā | śikṣa | śaciṣṭha | gātu-vit