Sukta 6.26
श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥
श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः । सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽव॒: पार्ये॒ अह॑न्दाः ॥
śrudhī́ na indra hváyāmasi tvā mahó vā́jasya sātáu vāvṛṣāṇā́ḥ | sáṃ yád víśo ayánta śūra-sātā ugráṃ no ’váḥ pāryé áhan dāḥ ||
हे इंद्रा! आमचे ऐक; आम्ही तुला हाक मारतो—महान् वाज-समृद्धीच्या विजयात वाढत असलेल्या तुला. जेव्हा लोक शूर-विजयासाठी एकत्र जमतात, तेव्हा निर्णायक दिवशी आम्हाला तुझे उग्र रक्षण प्रदान कर.
श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः । सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥श्रुधि । नः । इन्द्र । ह्वयामसि । त्वा । महः । वाजस्य । सातौ । ववृषाणाः । सम् । यत् । विशः । अयन्त । शूरसातौ । उग्रम् । नः । अवः । पार्ये । अहन् । दाः ॥śrudhi | naḥ | indra | hvayāmasi | tvā | mahaḥ | vājasya | sātau | vavṛṣāṇāḥ | sam | yat | viśaḥ | ayanta | śūra-sātau | ugram | naḥ | avaḥ | pārye | ahan | dāḥ