Sukta 10.93
ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः । पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥
ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रव॑: । पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥
ā́iṣu dyāvāpṛthivī dhātaṃ mahád asmē vī́reṣu viśvácarṣaṇi śrávaḥ | pṛkṣáṃ vā́jasya sātáye pṛkṣáṃ rāyótá turváṇe ||
या (आमच्या कर्मांत), हे द्यावापृथिवी, आमच्यासाठी महत्—विश्वचर्षणि (सर्वजन-धारक) श्रवः (यश/कीर्ती) आमच्या वीरांत स्थापन करा. वाज (बल-समृद्धी)च्या साति (प्राप्ती)साठी पुष्टिकर; रयि (धन/संपत्ती)साठी पुष्टिकर; आणि तुर्वण (विजयी अतिक्रमण)साठीही पुष्टिकर.
आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒त॒म् । म॒हत् । अ॒स्मे इति॑ । वी॒रेषु॑ । वि॒श्वऽच॑र्षणि । श्रवः॑ । पृ॒क्षम् । वाज॑स्य । सा॒तये॑ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे॑ ॥आ । एषु । द्यावापृथिवी इति । धातम् । महत् । अस्मे इति । वीरेषु । विश्वचर्षणि । श्रवः । पृक्षम् । वाजस्य । सातये । पृक्षम् । राया । उत । तुर्वणे ॥ā | eṣu | dyāvāpṛthivī iti | dhātam | mahat | asme iti | vīreṣu | viśva-carṣaṇi | śravaḥ | pṛkṣam | vājasya | sātaye | pṛkṣam | rāyā | uta | turvaṇe