Sukta 10.109
देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः । भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥
दे॒वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः । भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥
devā́ etasyā́m avadanta pū́rve saptaṛ́ṣayas tápase yé niṣedúḥ | bhīmā́ jāyā́ brāhmaṇásyópanītā durdhā́ṁ dadhāti paramé vyòman ||
तिच्याविषयी प्राचीन देवांनी सांगितले; आणि तपसाच्या तेजात आसनस्थ झालेले ते सात ऋषीही सांगतात. ब्राह्मणाची जाया, जेव्हा विधिपूर्वक (धर्ममार्गात) उपनीता होते, तेव्हा सामर्थ्यात भीषण ठरते; ती परम व्योमात दुर्धर फल—कठीण दाय—स्थापित करते.
दे॒वाः । ए॒तस्या॑म् । अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षयः॑ । तप॑से । ये । नि॒ऽसे॒दुः । भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । उप॑ऽनीता । दुः॒ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥देवाः । एतस्याम् । अवदन्त । पूर्वे । सप्तऋषयः । तपसे । ये । निसेदुः । भीमा । जाया । ब्राह्मणस्य । उपनीता । दुःधाम् । दधाति । परमे । विओमन् ॥devāḥ | etasyām | avadanta | pūrve | sapta-ṛṣayaḥ | tapase | ye | ni-seduḥ | bhīmā | jāyā | brāhmaṇasya | upa-nītā | duḥ-dhām | dadhāti | parame | vi-oman