Sukta 10.106
ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम् । यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः काममप्राः ॥
ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं॑ स॒रथे॒होप॑ यातम् । यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो॑ अ॒श्विनो॒: काम॑मप्राः ॥
ṛdhyāma stómaṃ sanuyāma vā́jam ā no mantráṃ sa-rathēhōpa yātam | yaśó na pakváṃ mádhu góṣv antarā bhūtāṃśo aśvinōḥ kā́mam aprāḥ ||
आम्ही स्तोम सिद्ध करू, वाज (बल-समृद्धी) मिळवू. हे अश्विनौ, रथासह आमच्या मंत्राजवळ येथे या. पिकलेल्या यशाप्रमाणे, तेजस्वी गोसमूहांत लपलेल्या मधूप्रमाणे—आमचा अंश व्हा; हे अश्विनौ, आमच्यातील आत्म्याची कामना पूर्ण करा.
ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् । यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥ऋध्याम । स्तोमम् । सनुयाम । वाजम् । आ । नः । मन्त्रम् । सरथा । इह । उप । यातम् । यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूतअंशः । अश्विनोः । कामम् । अप्राः ॥ṛdhyāma | stomam | sanuyāma | vājam | ā | naḥ | mantram | sa-rathā | iha | upa | yātam | yaśaḥ | na | pakvam | madhu | goṣu | antaḥ | ā | bhūta-aṃśaḥ | aśvinoḥ | kāmam | aprāḥ