Sukta 10.104
सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्र पूर्भित् । नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥
स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभि॒: सिन्धु॒मत॑र इन्द्र पू॒र्भित् । न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ॥
saptā́po devī́ḥ suráṇā́ amṛ́ktā yā́bhiḥ síndhum átara indra pūrbhít | navatíṃ srotyā́ nava ca sravántīr devébhyo gātúṃ mánuṣe ca vindaḥ ||
हे इंद्रा, पूर्भित् (दुर्गभेदक), त्या सप्त आपः—देवी, सुरणा (उत्तम प्रवाहाच्या), अमृक्ता (अमिश्रित) जलधारांच्या—साहाय्याने तू सिन्धुमत् (समुद्रसदृश) प्रवाह पार केलास. देवांसाठी आणि मनुष्यांसाठीही तू गातु (मार्ग) शोधलास—नव्वद स्रोत आणि आणखी नऊ वाहणाऱ्या धारा.
स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् । न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥सप्त । आपः । देवीः । सुरणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूःभित् । नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः ॥sapta | āpaḥ | devīḥ | su-raṇāḥ | amṛktāḥ | yābhiḥ | sindhum | ataraḥ | indra | pūḥ-bhit | navatim | srotyāḥ | nava | ca | sravantīḥ | devebhyaḥ | gātum | manuṣe | ca | vindaḥ