Sukta 1.94
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः । आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥
यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रव॑: । आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
yád áyukthā aruṣā́ róhitā ráthe vā́ta-jūtā vṛṣabhásyeva te rávaḥ | ā́d invasi vaníno dhūmá-ketunā́gne sakhyé mā́ riṣāmā vayáṃ táva ||
जेव्हा तू अरुण, रोहित अश्वांना रथास जुंपतोस—वाऱ्याने प्रेरित—तेव्हा तुझा गर्जन वृषभासारखा होतो. तेव्हा तू धूमकेतू (धुराचा ध्वज) घेऊन वनांना हालवितोस. हे अग्ने, तुझ्या सख्यात आम्हांस इजा होऊ नये; तुझ्या आश्रयबलात आम्ही सुरक्षित राहो.
यत् । अयु॑क्थाः । अ॒रु॒षा । रोहि॑ता । रथे॑ । वात॑ऽजूता । वृ॒ष॒भस्य॑ऽइव । ते॒ । आत् । इ॒न्व॒सि॒ । व॒निनः॑ । धू॒मऽके॑तुना । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥यत् । अयुक्थाः । अरुषा । रोहिता । रथे । वातजूता । वृषभस्यइव । ते । आत् । इन्वसि । वनिनः । धूमकेतुना । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥yat | ayukthāḥ | aruṣā | rohitā | rathe | vāta-jūtā | vṛṣabhasya-iva | te | āt | invasi | vaninaḥ | dhūma-ketunā | agne | sakhye | mā | riṣāma | vayam | tava