Sukta 1.143
प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे । अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥
प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे । अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्विय॑: ॥
pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare | apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ ||
सहसाचा सूनू असलेल्या अग्नीकरिता मी अधिक बलवान, सदैव नवी धिती आणि वाणीची मती अर्पित करतो. तो अपां नपात, वसूंंसह प्रिय होता, पृथ्वीवर ऋत्विज् म्हणून आसनस्थ झाला—ऋतु-क्रमाप्रमाणे यज्ञकर्म योग्य रीतीने स्थापन करणारा.
प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ । अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥प्र । तव्यसीम् । नव्यसीम् । धीतिम् । अग्नये । वाचः । मतिम् । सहसः । सूनवे । भरे । अपाम् । नपात् । यः । वसुभिः । सह । प्रियः । होता । पृथिव्याम् । नि । असीदत् । ऋत्वियः ॥pra | tavyasīm | navyasīm | dhītim | agnaye | vācaḥ | matim | sahasaḥ | sūnave | bhare | apām | napāt | yaḥ | vasu-bhiḥ | saha | priyaḥ | hotā | pṛthivyām | ni | asīdat | ṛtviyaḥ