Sukta 1.123
कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम् । संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥
क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् । सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥
kanyéva tanvā́ śā́śadānā́ṃ éṣi devi devám íyakṣamāṇam | saṃsmáyamānā yuvatíḥ purástād āvír vákṣāṃsi kṛṇuṣe vibhātī́ ||
कन्येसारखी, आपल्या तन्वेतच सौंदर्य प्रकट करणारी, हे देवी, तू यज्ञ-हविष् इच्छिणाऱ्या त्या देवाकडे जाते आहेस. स्मितहास्ययुक्त, युवती, अग्रभागी प्रकाशमान होऊन, तू विभाती होत आपले वक्ष प्रकट करतेस—दर्शनशील आत्म्यासाठी अस्तित्वातील गूढ तेज उलगडून दाखवितेस.
क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् । स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥कन्याइव । तन्वा । शाशदाना । एषि । देवि । देवम् । इयक्षमाणम् । सम्स्मयमाना । युवतिः । पुरस्तात् । आविः । वक्षांसि । कृणुषे । विभाती ॥kanyāiva | tanvā | śāśadānā | eṣi | devi | devam | iyakṣamāṇam | sam-smayamānā | yuvatiḥ | purastāt | āviḥ | vakṣāṃsi | kṛṇuṣe | vi-bhātī