Verse 5

Akshamalika

ओमङ्कार मृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ । ओमाङ्काराकर्षणात्मकसर्वगत द्वितीयेऽक्षे प्रतितिष्ठ । ओमिङ्कारपुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ । ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ । ओमुङ्कार सर्वबलप्रद सारतर पञ्चमेऽक्षे प्रतितिष्ठ । ओमूङ्कारोच्चाटन दुःसह षष्ठेऽक्षे प्रतितिष्ठ । ओमृङ्कार संक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ । ओमॄङ्कार संमोहनकरोज्ज्वल अष्टमेऽक्षे प्रतितिष्ठ । ओम्लृङ्कार विद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ । ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ । ओमेङ्कार सर्ववश्यकर शुद्धसत्त्व एकादशेऽक्षे प्रतितिष्ठ । ओमैङ्कार शुद्धसात्त्विक पुरुषवश्यकर द्वादशेऽक्षे प्रतितिष्ठ । ओमोङ्कार अखिलवाङ्मय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ । ओमौङ्कार सर्ववाङ्मय वश्यकर चतुर्दशेऽक्षे प्रतितिष्ठ । ओमङ्कार गजादिवश्यकर मोहन पञ्चदशेऽक्षे प्रतितिष्ठ । ओमःकार मृत्युनाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ । ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ । ॐ खङ्कार सर्वक्षोभकर व्यापक अष्टादशेऽक्षे प्रतितिष्ठ । ॐ गङ्कार सर्वविघ्नशमन महत्तर एकोनविंशेऽक्षे प्रतितिष्ठ । ॐ घङ्कार सौभाग्यद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ । ॐ ङकार सर्वविषनाशकर उग्र एकविंशेऽक्षे प्रतितिष्ठ । ॐ चङ्कार अभिचारघ्न क्रूर द्वाविंशेऽक्षे प्रतितिष्ठ । ॐ छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ । ॐ जङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विंशेऽक्षे प्रतितिष्ठ । ॐ झङ्कार भूतनाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ । ॐ ञकार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ । ॐ टङ्कार सर्वव्याधिहर सुभग सप्तविंशेऽक्षे प्रतितिष्ठ । ॐ ठङ्कार चन्द्ररूप अष्टाविंशेऽक्षे प्रतितिष्ठ । ॐ डङ्कार गरुडात्मक विषघ्न शोभन एकोनत्रिंशेऽक्षे प्रतितिष्ठ । ॐ ढङ्कार सर्वसम्पत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ । ॐ णङ्कार सर्वसिद्धिप्रद मोहकर एकत्रिंशेऽक्षे प्रतितिष्ठ । ॐ तङ्कार धनधान्यादिसम्पत्प्रद प्रसन्न द्वात्रिंशेऽक्षे प्रतितिष्ठ । ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ । ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षे प्रतितिष्ठ । ॐ धङ्कार विषज्वरनिघ्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ । ॐ नङ्कार भुक्तिमुक्तिप्रद शान्त षट्त्रिंशेऽक्षे प्रतितिष्ठ । ॐ पङ्कार विषविघ्ननाशन भव्य सप्तत्रिंशेऽक्षे प्रतितिष्ठ । ॐ फङ्कार अणिमादिसिद्धिप्रद ज्योतीरूप अष्टत्रिंशेऽक्षे प्रतितिष्ठ । ॐ बङ्कार सर्वदोषहर शोभन एकोनचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ भङ्कार भूतप्रशान्तिकर भयानक चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ मङ्कार विद्वेषिमोहनकर एकचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ यङ्कार सर्वव्यापक पावन द्विचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ रङ्कार दाहकर विकृत त्रिचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ लङ्कार विश्वंभर भासुर चतुश्चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ वङ्कार सर्वाप्यायनकर निर्मल पञ्चचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ शङ्कार सर्वफलप्रद पवित्र षट्चत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ षङ्कार धर्मार्थकामद धवल सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ सङ्कार सर्वकारण सार्ववर्णिक अष्टचत्वारिंशेऽक्षे प्रतितिष्ठ । ॐ हङ्कार सर्ववाङ्मय निर्मल एकोनपञ्चाशेऽक्षे प्रतितिष्ठ । ॐ ळङ्कार सर्वशक्तिप्रद प्रधान पञ्चाशेऽक्षे प्रतितिष्ठ । ॐ क्षङ्कार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौ प्रतितिष्ठ ॥५॥

ओमङ्कारः । मृत्युञ्जयः । सर्व-व्यापकः । प्रथमे । अक्षे । प्रतितिष्ठ । ओमाङ्कारः । आकर्षण-आत्मकः । सर्व-गतः । द्वितीये । अक्षे । प्रतितिष्ठ । ओमिङ्कारः । पुष्टि-दः । आक्षोभ-करः । तृतीये । अक्षे । प्रतितिष्ठ । ओमीङ्कारः । वाक्-प्रसाद-करः । निर्मलः । चतुर्थे । अक्षे । प्रतितिष्ठ । ओमुङ्कारः । सर्व-बल-प्रदः । सार-तरः । पञ्चमे । अक्षे । प्रतितिष्ठ । ओमूङ्कारः । उच्चाटन-करः । दुःसहः । षष्ठे । अक्षे । प्रतितिष्ठ । ओमृङ्कारः । संक्षोभ-करः । चञ्चलः । सप्तमे । अक्षे । प्रतितिष्ठ । ओमॄङ्कारः । संमोहन-करः । उज्ज्वलः । अष्टमे । अक्षे । प्रतितिष्ठ । ओम्लृङ्कारः । विद्वेषण-करः । मोहकः । नवमे । अक्षे । प्रतितिष्ठ । ओम्लॄङ्कारः । मोह-करः । दशमे । अक्षे । प्रतितिष्ठ । ओमेङ्कारः । सर्व-वश्य-करः । शुद्ध-सत्त्वः । एकादशे । अक्षे । प्रतितिष्ठ । ओमैङ्कारः । शुद्ध-सात्त्विकः । पुरुष-वश्य-करः । द्वादशे । अक्षे । प्रतितिष्ठ । ओमोङ्कारः । अखिल-वाङ्मयः । नित्य-शुद्धः । त्रयोदशे । अक्षे । प्रतितिष्ठ । ओमौङ्कारः । सर्व-वाङ्मयः । वश्य-करः । चतुर्दशे । अक्षे । प्रतितिष्ठ । ओमङ्कारः । गज-आदि-वश्य-करः । मोहनः । पञ्चदशे । अक्षे । प्रतितिष्ठ । ओमःकारः । मृत्यु-नाशन-करः । रौद्रः । षोडशे । अक्षे । प्रतितिष्ठ । ॐ । कङ्कारः । सर्व-विष-हरः । कल्याण-दः । सप्तदशे । अक्षे । प्रतितिष्ठ । ॐ । खङ्कारः । सर्व-क्षोभ-करः । व्यापकः । अष्टादशे । अक्षे । प्रतितिष्ठ । ॐ । गङ्कारः । सर्व-विघ्न-शमनः । महत्तरः । एकोनविंशे । अक्षे । प्रतितिष्ठ । ॐ । घङ्कारः । सौभाग्य-दः । स्तम्भन-करः । विंशे । अक्षे । प्रतितिष्ठ । ॐ । ङकारः । सर्व-विष-नाशकः । उग्रः । एकविंशे । अक्षे । प्रतितिष्ठ । ॐ । चङ्कारः । अभिचार-घ्नः । क्रूरः । द्वाविंशे । अक्षे । प्रतितिष्ठ । ॐ । छङ्कारः । भूत-नाशकः । भीषणः । त्रयोविंशे । अक्षे । प्रतितिष्ठ । ॐ । जङ्कारः । कृत्य-आदि-नाशकः । दुर्धर्षः । चतुर्विंशे । अक्षे । प्रतितिष्ठ । ॐ । झङ्कारः । भूत-नाशकः । पञ्चविंशे । अक्षे । प्रतितिष्ठ । ॐ । ञकारः । मृत्यु-प्रमथनः । षड्विंशे । अक्षे । प्रतितिष्ठ । ॐ । टङ्कारः । सर्व-व्याधि-हरः । सुभगः । सप्तविंशे । अक्षे । प्रतितिष्ठ । ॐ । ठङ्कारः । चन्द्र-रूपः । अष्टाविंशे । अक्षे । प्रतितिष्ठ । ॐ । डङ्कारः । गरुड-आत्मकः । विष-घ्नः । शोभनः । एकोनत्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । ढङ्कारः । सर्व-सम्पत्-प्रदः । सुभगः । त्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । णङ्कारः । सर्व-सिद्धि-प्रदः । मोह-करः । एकत्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । तङ्कारः । धन-धान्य-आदि-सम्पत्-प्रदः । प्रसन्नः । द्वात्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । थङ्कारः । धर्म-प्राप्ति-करः । निर्मलः । त्रयस्त्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । दङ्कारः । पुष्टि-वृद्धि-करः । प्रिय-दर्शनः । चतुस्त्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । धङ्कारः । विष-ज्वर-निघ्नः । विपुलः । पञ्चत्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । नङ्कारः । भुक्ति-मुक्ति-प्रदः । शान्तः । षट्त्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । पङ्कारः । विष-विघ्न-नाशनः । भव्यः । सप्तत्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । फङ्कारः । अणिमा-आदि-सिद्धि-प्रदः । ज्योति-रूपः । अष्टत्रिंशे । अक्षे । प्रतितिष्ठ । ॐ । बङ्कारः । सर्व-दोष-हरः । शोभनः । एकोनचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । भङ्कारः । भूत-प्रशान्ति-करः । भयानकः । चत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । मङ्कारः । विद्वेषि-मोहन-करः । एकचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । यङ्कारः । सर्व-व्यापकः । पावनः । द्विचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । रङ्कारः । दाह-करः । विकृतः । त्रिचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । लङ्कारः । विश्वंभरः । भासुरः । चतुश्चत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । वङ्कारः । सर्व-आप्यायन-करः । निर्मलः । पञ्चचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । शङ्कारः । सर्व-फल-प्रदः । पवित्रः । षट्चत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । षङ्कारः । धर्म-अर्थ-काम-दः । धवलः । सप्तचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । सङ्कारः । सर्व-कारणः । सार्व-वर्णिकः । अष्टचत्वारिंशे । अक्षे । प्रतितिष्ठ । ॐ । हङ्कारः । सर्व-वाङ्मयः । निर्मलः । एकोनपञ्चाशे । अक्षे । प्रतितिष्ठ । ॐ । ळङ्कारः । सर्व-शक्ति-प्रदः । प्रधानः । पञ्चाशे । अक्षे । प्रतितिष्ठ । ॐ । क्षङ्कारः । पर-अपर-तत्त्व-ज्ञापकः । परम्-ज्योतिḥ-रूपः । शिखा-मणौ । प्रतितिष्ठ ॥५॥

omaṅkāra mṛtyuñjaya sarvavyāpaka prathame'kṣe pratitiṣṭha | omāṅkārākarṣaṇātmakasarvagata dvitīye'kṣe pratitiṣṭha | omiṅkārapuṣṭidākṣobhakara tṛtīye'kṣe pratitiṣṭha | omīṅkāra vākprasādakara nirmala caturthe'kṣe pratitiṣṭha | omuṅkāra sarvabalaprada sārātara pañcame'kṣe pratitiṣṭha | omūṅkāroccāṭana duḥsaha ṣaṣṭhe'kṣe pratitiṣṭha | omṛṅkāra saṃkṣobhakara cañcala saptame'kṣe pratitiṣṭha | omṝṅkāra saṃmohanakaro'jjvala aṣṭame'kṣe pratitiṣṭha | omlṛṅkāra vidveṣaṇakara mohaka navame'kṣe pratitiṣṭha | omlṝṅkāra mohakara daśame'kṣe pratitiṣṭha | omeṅkāra sarvavaśyakara śuddhasattva ekādaśe'kṣe pratitiṣṭha | omaiṅkāra śuddhasāttvika puruṣavaśyakara dvādaśe'kṣe pratitiṣṭha | omoṅkāra akhilavāṅmaya nityaśuddha trayodaśe'kṣe pratitiṣṭha | omauṅkāra sarvavāṅmaya vaśyakara caturdaśe'kṣe pratitiṣṭha | omaṅkāra gajādivaśyakara mohana pañcadaśe'kṣe pratitiṣṭha | omḥkāra mṛtyunāśanakara raudra ṣoḍaśe'kṣe pratitiṣṭha | oṃ kaṅkāra sarvaviṣahara kalyāṇada saptadaśe'kṣe pratitiṣṭha | oṃ khaṅkāra sarvakṣobhakara vyāpaka aṣṭādaśe'kṣe pratitiṣṭha | oṃ gaṅkāra sarvavighnaśamana mahattara ekonaviṃśe'kṣe pratitiṣṭha | oṃ ghaṅkāra saubhāgyada stambhanakara viṃśe'kṣe pratitiṣṭha | oṃ ṅakāra sarvaviṣanāśakara ugra ekaviṃśe'kṣe pratitiṣṭha | oṃ caṅkāra abhicāraghna krūra dvāviṃśe'kṣe pratitiṣṭha | oṃ chaṅkāra bhūtanāśakara bhīṣaṇa trayoviṃśe'kṣe pratitiṣṭha | oṃ jaṅkāra kṛtyādināśakara durdharṣa caturviṃśe'kṣe pratitiṣṭha | oṃ jhaṅkāra bhūtanāśakara pañcaviṃśe'kṣe pratitiṣṭha | oṃ ñakāra mṛtyupramathana ṣaḍviṃśe'kṣe pratitiṣṭha | oṃ ṭaṅkāra sarvavyādhihara subhaga saptaviṃśe'kṣe pratitiṣṭha | oṃ ṭhaṅkāra candrarūpa aṣṭāviṃśe'kṣe pratitiṣṭha | oṃ ḍaṅkāra garuḍātmaka viṣaghna śobhana ekonatriṃśe'kṣe pratitiṣṭha | oṃ ḍhaṅkāra sarvasampatprada subhaga triṃśe'kṣe pratitiṣṭha | oṃ ṇaṅkāra sarvasiddhiprada mohakara ekatriṃśe'kṣe pratitiṣṭha | oṃ taṅkāra dhanadhānyādisampatprada prasanna dvātriṃśe'kṣe pratitiṣṭha | oṃ thaṅkāra dharmaprāptikara nirmala trayastriṃśe'kṣe pratitiṣṭha | oṃ daṅkāra puṣṭivṛddhikara priyadarśana catuṣtriṃśe'kṣe pratitiṣṭha | oṃ dhaṅkāra viṣajvaranighna vipula pañcatriṃśe'kṣe pratitiṣṭha | oṃ naṅkāra bhuktimuktiprada śānta ṣaṭtriṃśe'kṣe pratitiṣṭha | oṃ paṅkāra viṣavighnanāśana bhavya saptatriṃśe'kṣe pratitiṣṭha | oṃ phaṅkāra aṇimādisiddhiprada jyotīrūpa aṣṭatriṃśe'kṣe pratitiṣṭha | oṃ baṅkāra sarvadoṣahara śobhana ekonacatvāriṃśe'kṣe pratitiṣṭha | oṃ bhaṅkāra bhūtapraśāntikara bhayānaka catvāriṃśe'kṣe pratitiṣṭha | oṃ maṅkāra vidveṣimohanakara ekacatvāriṃśe'kṣe pratitiṣṭha | oṃ yaṅkāra sarvavyāpaka pāvana dvicatvāriṃśe'kṣe pratitiṣṭha | oṃ raṅkāra dāhakara vikṛta tricatvāriṃśe'kṣe pratitiṣṭha | oṃ laṅkāra viśvaṃbhara bhāsura catuścatvāriṃśe'kṣe pratitiṣṭha | oṃ vaṅkāra sarvāpyāyanakara nirmala pañcacatvāriṃśe'kṣe pratitiṣṭha | oṃ śaṅkāra sarvaphalaprada pavitra ṣaṭcatvāriṃśe'kṣe pratitiṣṭha | oṃ ṣaṅkāra dharmārthakāmadā dhavala saptacatvāriṃśe'kṣe pratitiṣṭha | oṃ saṅkāra sarvakāraṇa sārvavarṇika aṣṭacatvāriṃśe'kṣe pratitiṣṭha | oṃ haṅkāra sarvavāṅmaya nirmala ekonapañcāśe'kṣe pratitiṣṭha | oṃ ḻaṅkāra sarvaśaktiprada pradhāna pañcāśe'kṣe pratitiṣṭha | oṃ kṣaṅkāra parāparatattvajñāpaka paraṃjyotīrūpa śikhāmaṇau pratitiṣṭha ||5||

‘ഓം-അങ്കാരം, മൃത്യുഞ്ജയൻ, സർവ്വവ്യാപകൻ— ആദ്യ മണിയിൽ പ്രതിഷ്ഠിതനാകുക. ഓം-ആങ്കാരം, ആകർഷണസ്വഭാവം, സർവ്വഗതൻ— രണ്ടാം മണിയിൽ പ്രതിഷ്ഠിതനാകുക. ഓം-ഇങ്കാരം, പുഷ്ടിദായകൻ, ക്ഷോഭകരൻ— മൂന്നാം മണിയിൽ പ്രതിഷ്ഠിതനാകുക. ഓം-ഈങ്കാരം, വാക്‌പ്രസാദകൻ, നിർമ്മലം— നാലാം മണിയിൽ പ്രതിഷ്ഠിതനാകുക. ഓം-ഉങ്കാരം, സർവ്വബലപ്രദൻ, സാരതരം— അഞ്ചാം മണിയിൽ പ്രതിഷ്ഠിതനാകുക…’ ഇങ്ങനെ ‘ക’ മുതൽ ‘ക്ഷ’ വരെ ഓരോ വ്യഞ്ജനത്തിനും ‘ഓം’ മുൻനിർത്തി അതത് ശക്തി സ്മരിച്ചു ‘ആ മണിയിൽ പ്രതിഷ്ഠിതനാകുക’ എന്ന് നിയോഗിക്കണം; അവസാനം— ‘ഓം-ക്ഷങ്കാരം, പരാ-അപര തത്ത്വം വെളിപ്പെടുത്തുന്നവൻ, പരഞ്ജ്യോതി-രൂപൻ— ശിഖാമണി/മേരു-യിൽ പ്രതിഷ്ഠിതനാകുക’॥५॥

‘Oṃ-aṅkāra, conqueror of death, all-pervading—be established in the first bead. Oṃ-āṅkāra, of the nature of attraction, all-going—be established in the second bead. Oṃ-iṅkāra, giver of nourishment, causing agitation—be established in the third bead. Oṃ-īṅkāra, bestower of clarity of speech, pure—be established in the fourth bead. Oṃ-uṅkāra, giver of all strength, most excellent—be established in the fifth bead. Oṃ-ūṅkāra, effecting expulsion, irresistible—be established in the sixth bead. Oṃ-ṛṅkāra, causing disturbance, unsteady—be established in the seventh bead. Oṃ-ṝṅkāra, causing fascination, brilliant—be established in the eighth bead. Oṃ-lṛṅkāra, causing enmity, deluding—be established in the ninth bead. Oṃ-lṝṅkāra, deluding—be established in the tenth bead. Oṃ-eṅkāra, making all subject, of pure sattva—be established in the eleventh bead. Oṃ-aiṅkāra, purely sattvic, making persons subject—be established in the twelfth bead. Oṃ-oṅkāra, consisting of all speech, eternally pure—be established in the thirteenth bead. Oṃ-auṅkāra, consisting of all speech, making subject—be established in the fourteenth bead. Oṃ-aṅkāra, making even elephants etc. subject, enchanting—be established in the fifteenth bead. Oṃ-ḥkāra, destroyer of death, fierce—be established in the sixteenth bead.’ Thereafter, for each consonant (ka to kṣa), with ‘oṃ’ prefixed, it assigns a specific power and commands: ‘be established in the (respective) bead’—ending with: ‘Oṃ-kṣaṅkāra, revealer of the higher and lower reality, of the form of supreme light—be established in the crest-jewel (śikhāmaṇi/meru).’

Śabda-brahman / mātṛkā-śakti as a support for upāsanā; movement from phonemic totality toward para-jyotis (supreme light)Mahavakya: Indirect: the phonemic ‘totality of vāk’ is treated as a ladder (upāsanā) toward the nondual truth expressed by mahāvākyas; not itself a mahāvākya statement.AtharvaAtharva-veda (late/para-Upaniṣad tradition; specific śākhā not securely attested) ShakhaChandas: Prose (litany/nyāsa-style)