सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु । शृ॒णोत्व॒ग्निः स॒मिधा॑ ह॒वं मे॑ शृण्व॒न्त्वापो॑ धि॒षणा॑श्च दे॒वीः । श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञᳪ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥
sóma rā́jan víśvās tvaṃ prajā́ úpā́varoha víśvās tvāṃ prajā́ úpā́varohantu | śṛṇótv agníḥ samídhā haváṃ mé śṛṇvántv ā́po dhiṣáṇāś ca devī́ḥ | śrótā grā́vāṇo vidúṣo ná yajñáṃ śṛṇótu deváḥ savitā́ haváṃ mé svā́hā ||
ഹേ സോമരാജൻ, നീ ഇവിടെ ഇറങ്ങിവരിക; സർവ്വ പ്രജകളേ, സോമന്റെ അടുക്കൽ ഇവിടെ ഇറങ്ങിവരിക. സമിധയാൽ അഗ്നി എന്റെ ഹവം കേൾക്കട്ടെ; ആപഃയും ദേവീ ധിഷണകളും കേൾക്കട്ടെ. യജ്ഞം അറിയുന്നവനെപ്പോലെ ഗ്രാവാണങ്ങൾ കേൾക്കട്ടെ; ദേവൻ സവിതാ എന്റെ ഹവം കേൾക്കട്ടെ—സ്വാഹാ!
सोम । राजन् । विश्वाः । त्वम् । प्रजाः । उप-अवरोह । विश्वाः । त्वाम् । प्रजाः । उप-अवरोहन्तु । शृणोतु । अग्निः । समिधा । हवम् । मे । शृण्वन्तु । आपः । धिषणाः । च । देवीः । श्रोता । ग्रावाणः । विदुषः । न । यज्ञम् । शृणोतु । देवः । सविता । हवम् । मे । स्वाहा ।