Sukta 6.16
प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया । अर्च गाय च वेधसे ॥
प्र व॑: सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या । अर्च॒ गाय॑ च वे॒धसे॑ ॥
prá vaḥ sakhāyo agnáye stómaṃ yajñáṃ ca dhṛṣṇu-yā́ | árca gā́ya ca védhase ||
മുന്നോട്ട് വരുവിൻ, ഹേ സഖാക്കളേ: അഗ്നിക്കായി ധൃഷ്ണു ഊർജ്ജത്തോടെ സ്തോമവും യജ്ഞവും കൊണ്ടുവരുവിൻ; വേധസേ (ജ്ഞാനിയായ വിധാതാവ്)നെ അർച്ചിച്ചു, ജപിച്ചു, പാടുവിൻ.
प्र । वः॒ । स॒खा॒यः॒ । अ॒ग्नये॑ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया । अर्च॑ । गाय॑ । च॒ । वे॒धसे॑ ॥प्र । वः । सखायः । अग्नये । स्तोमम् । यज्ञम् । च । धृष्णुया । अर्च । गाय । च । वेधसे ॥pra | vaḥ | sakhāyaḥ | agnaye | stomam | yajñam | ca | dhṛṣṇu-yā | arca | gāya | ca | vedhase