Sukta 10.120
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑: ॥
tád íd ā́sa bhúvaneṣu jyéṣṭhaṃ yáto jajñé ugrás tvéṣa-nṛ́mṇaḥ | sadyó jajñānó ní riṇāti śátrūn ánu yáṃ víśve mádanty ū́māḥ ||
അതുതന്നെ ലോകങ്ങളിൽ ജ്യേഷ്ഠമായ ശക്തിയായിരുന്നു; അതിൽ നിന്നാണ് ഉഗ്രൻ—നൃമ്ണത്തിൽ ദീപ്തനായവൻ—ജനിച്ചത്. പുതുതായി ജനിച്ചവൻ ഉടൻ തന്നെ ശത്രുക്കളെ താഴ്ത്തുന്നു; അവനെ അനുഗമിച്ച് എല്ലാ ഊമാഃ (പ്രാണശക്തികൾ) ആഹ്ലാദിക്കുന്നു.
तत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः । स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषनृम्णः । सद्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥tat | it | āsa | bhuvaneṣu | jyeṣṭham | yataḥ | jajñe | ugraḥ | tveṣa-nṛmṇaḥ | sadyaḥ | jajñānaḥ | ni | riṇāti | śatrūn | anu | yam | viśve | madanti | ūmāḥ