Sukta 10.115
इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् । ताँश्च पाहि गृणतश्च सूरीन्वषड्वषळित्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥
इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् । ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥
íti tvāgne vṛṣṭihávyasya putrā́ upastutā́sa ṛ́ṣayo 'vocan | tā́ṃś ca pā́hi gṛṇatáś ca sūrī́n váṣaḍ váṣaḷ íty ūrdhvā́so anakṣan námo náma íty ūrdhvā́so anakṣan ||
ഹേ അഗ്നി, ഇങ്ങനെ വൃഷ്ടിഹവ്യന്റെ പുത്രന്മാർ—യഥാവിധി സ്തുതിച്ച ഋഷിമാർ—നിനക്കു പറഞ്ഞു. അവരെ കാത്തുകൊൾക; പാടുന്ന സൂരിമാരെയും (പ്രകാശിത നേതാക്കളെയും) കാത്തുകൊൾക. ‘വഷട്, വഷട്’ എന്നു വിളിച്ച് അവർ ഊർദ്ധ്വത്തിലേക്ക് ഉയർന്നു; ‘നമോ, നമഃ’ എന്നു വിളിച്ച് അവർ വീണ്ടും ഊർദ്ധ്വത്തിലേക്ക് ഉയർന്നു—ചേതനയെ ശിഖരങ്ങളിലേക്കുയർത്തിക്കൊണ്ട്.
इति॑ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒ऽहव्य॑स्य । पु॒त्राः । उ॒प॒ऽस्तु॒तासः॑ । ऋष॑यः । अ॒वो॒च॒न् । तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष॑ट् । वष॑ट् । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् । नमः॑ । नमः॑ । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् ॥इति । त्वा । अग्ने । वृष्टिहव्यस्य । पुत्राः । उपस्तुतासः । ऋषयः । अवोचन् । तान् । च । पाहि । गृणतः । च । सूरीन् । वषट् । वषट् । इति । ऊर्ध्वासः । अनक्षन् । नमः । नमः । इति । ऊर्ध्वासः । अनक्षन् ॥iti | tvā | agne | vṛṣṭi-havyasya | putrāḥ | upa-stutāsaḥ | ṛṣayaḥ | avocan | tān | ca | pāhi | gṛṇataḥ | ca | sūrīn | vaṣaṭ | vaṣaṭ | iti | ūrdhvāsaḥ | anakṣan | namaḥ | namaḥ | iti | ūrdhvāsaḥ | anakṣan