Sukta 10.115
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे । अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे । अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥
citrā́ íc chiśós tarúṇasya vakṣáthó ná yó mātárāv apyéti dhā́tave | anūdhā́ yádi jī́janad ádhā ca nú vavákṣa sadyó máhi dūtyàṃ caran ||
യുവ ശിശുവിന്റെ വളർച്ച അത്യന്തം ചിത്ര (അദ്ഭുത)മാണ്—സ്ഥാപനത്തിനായി അവൻ രണ്ടു മാതാക്കളെയും പോലും അതിക്രമിക്കുന്നു. അവൻ പഥങ്ങളിൽ പ്രജ്വലിതനാകുമ്പോൾ, ഉടൻ തന്നെ മഹത്തായ ദൂത്യം വഹിച്ച്—ദൂതനായി സഞ്ചരിക്കുന്നു.
चि॒त्रः । इत् । शिशोः॑ । तरु॑णस्य । व॒क्षथः॑ । न । यः । मा॒तरौ॑ । अ॒पि॒ऽएति॑ । धात॑वे । अ॒नू॒धाः । यदि॑ । जीज॑नत् । अधा॑ । च॒ । नु । व॒वक्ष॑ । स॒द्यः । महि॑ । दू॒त्य॑म् । चर॑न् ॥चित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अपिएति । धातवे । अनूधाः । यदि । जीजनत् । अधा । च । नु । ववक्ष । सद्यः । महि । दूत्यम् । चरन् ॥citraḥ | it | śiśoḥ | taruṇasya | vakṣathaḥ | na | yaḥ | mātarau | api-eti | dhātave | anūdhāḥ | yadi | jījanat | adhā | ca | nu | vavakṣa | sadyaḥ | mahi | dūtyam | caran