Sukta 1.139
दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः । तेषां देवेष्वायतिरस्माकं तेषु नाभयः । तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥
द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे॑ध॒: कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः । तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः । तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी आ न॑मे गि॒रा ॥
dadhyaṅ ha me januṣaṃ pūrvo aṅgirāḥ priya-medhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ | teṣāṃ deveṣv āyatis asmākaṃ teṣu nābhayaḥ | teṣāṃ padena mahi ā name girā indrāgnī ā name girā ||
ദധ്യഞ്ച്, പ്രാചീന അങ്ഗിരസ്, പ്രിയമേധ, കണ്വ, അത്രി, മനു—ഇവർ എന്റെ ജനനവും രൂപീകരണവും അറിഞ്ഞവർ; എന്റെ പൂർവ്വികരും അതറിഞ്ഞവർ. അവരുടെ എത്തിച്ചേരൽ ദേവന്മാരിലേക്കാണ്; അവരിലാണു നമ്മുടെ നാഭിബന്ധം (കേന്ദ്രബന്ധം), തുടർച്ചയുടെ നാഭി. അവരുടെ പാദപഥത്തിലൂടെ, ആ മഹത്തായ പടിയിലൂടെ, ഞാൻ വാക്കുകൊണ്ട് നമിക്കുന്നു; ഇന്ദ്ര–അഗ്നികൾക്കു ഞാൻ വാക്കുകൊണ്ട് നമിക്കുന്നു.
द॒ध्यङ् । ह॒ । मे॒ । ज॒नुष॑म् । पूर्वः॑ । अङ्गि॑राः । प्रि॒यऽमे॑धः॑ । कण्वः॑ । अत्रिः॑ । मनुः॑ । वि॒दुः॒ । ते । मे॒ । पूर्वे॑ । मनुः॑ । वि॒दुः॒ । तेषा॑म् । दे॒वेषु॑ । आऽय॑तिः । अ॒स्माक॑म् । तेषु॑ । नाभ॑यः । तेषा॑म् । प॒देन॑ । महि॑ । आ । न॒मे॒ । गि॒रा । इ॒न्द्रा॒ग्नी इति॑ । आ । न॒मे॒ । गि॒रा ॥दध्यङ् । ह । मे । जनुषम् । पूर्वः । अङ्गिराः । प्रियमेधः । कण्वः । अत्रिः । मनुः । विदुः । ते । मे । पूर्वे । मनुः । विदुः । तेषाम् । देवेषु । आयतिः । अस्माकम् । तेषु । नाभयः । तेषाम् । पदेन । महि । आ । नमे । गिरा । इन्द्राग्नी इति । आ । नमे । गिरा ॥dadhyaṅ | ha | me | januṣam | pūrvaḥ | aṅgirāḥ | priya-medhaḥ | kaṇvaḥ | atriḥ | manuḥ | viduḥ | te | me | pūrve | manuḥ | viduḥ | teṣām | deveṣu | āyatiḥ | asmākam | teṣu | nābhayaḥ | teṣām | padena | mahi | ā | name | girā | indrāgnī itgi | ā | name | girā