Sukta 1.123
सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् । भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥
सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् । भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥
su-saṅkāśā́ mātṛ́mṛṣṭeva yóṣā́vis tanvàṃ kṛṇuṣe dṛśé kám | bhadrā́ tvám uṣo vitaráṃ vy ùccha ná tát te anyā́ uṣáso naśanta ||
സുശോഭനപ്രകാശമുള്ളവളായി, അമ്മ നന്നായി അലങ്കരിച്ച സ്ത്രീപോലെ, നീ കാണുന്നതിനായി നിന്റെ രൂപം വെളിപ്പെടുത്തുന്നു. ഹേ ഭദ്ര ഉഷസ്സേ, കൂടുതൽ വിശാലമായി ഉദിക്ക; മറ്റു ഉഷസ്സുകൾ ഒന്നും നിനക്കുള്ളതിനെ കവർന്നെടുക്കുകയില്ല—വെളിപ്പെടുത്തലിന്റെ നിന്റെ അതുല്യ ദാനം.
सु॒ऽस॒ङ्का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् । भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥सुसङ्काशा । मातृमृष्टाइव । योषा । आविः । तन्वम् । कृणुषे । दृशे । कम् । भद्रा । त्वम् । उषः । वितरम् । वि । उच्छ । न । तत् । ते । अन्याः । उषसः । नशन्त ॥su-saṅkāśā | mātṛmṛṣṭāiva | yoṣā | āviḥ | tanvam | kṛṇuṣe | dṛśe | kam | bhadrā | tvam | uṣaḥ | vi-taram | vi | uccha | na | tat | te | anyāḥ | uṣasaḥ | naśanta