Sukta 1.122
मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना । किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥
मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑ । किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥
mándāmahe dáśa-tayasya dhāsér dvír yát páñca bíbhrato yánty ánnā | kím iṣṭā́śva iṣṭá-raśmir etá īśānā́sás tarúṣa ṛ́ñjate nṝ́n ||
ദശതയന്റെ ദാനഭാഗത്തിൽ ഞങ്ങൾ ആനന്ദിക്കുന്നു; ദ്വി-പഞ്ച—രണ്ടുതവണ അഞ്ചു—പോഷണധാരകളെ ധരിച്ചു അന്നം കൊണ്ടുവരുന്നു. ഇവ എന്ത്—ഇഷ്ടാശ്വങ്ങളോ, ഇഷ്ടരശ്മികളോ? ഈ അധിപതികൾ, അജയ്യർ, മുന്നോട്ട് പാഞ്ഞുചെന്ന് മനുഷ്യരെ ചലനത്തിലേക്ക് പ്രേരിപ്പിക്കുന്നു.
मन्दा॑महे । दश॑ऽतयस्य । धा॒सेः । द्विः । यत् । पञ्च॑ । बिभ्र॑तः । यन्ति॑ । अन्ना॑ । किम् । इ॒ष्टऽअ॑श्वः । इ॒ष्टऽर॑श्मिः । ए॒ते । ई॒शा॒नासः॑ । तरु॑षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥मन्दामहे । दशतयस्य । धासेः । द्विः । यत् । पञ्च । बिभ्रतः । यन्ति । अन्ना । किम् । इष्टअश्वः । इष्टरश्मिः । एते । ईशानासः । तरुषः । ऋञ्जते । नॄन् ॥mandāmahe | daśa-tayasya | dhāseḥ | dviḥ | yat | pañca | bibhrataḥ | yanti | annā | kim | iṣṭa-aśvaḥ | iṣṭa-raśmiḥ | ete | īśānāsaḥ | taruṣaḥ | ṛñjate | nṝn