Mandukya
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥
एषः । सर्व-ईश्वरः । एषः । सर्व-ज्ञः । एषः । अन्तर्यामी । एषः । योनिः । सर्वस्य । प्रभव-अप्ययौ । हि । भूतानाम् ॥६॥
eṣa sarveśvaraḥ eṣa sarvajñaḥ eṣo ’ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām ||6||
ນີ້ແຫຼະ (ປຣາຊຍະ) ແມ່ນພຣະເຈົ້າແຫ່ງທັງປວງ; ນີ້ແມ່ນຜູ້ຮູ້ທັງໝົດ; ນີ້ແມ່ນຜູ້ຄວບຄຸມພາຍໃນ (antaryāmin); ນີ້ແມ່ນແຫຼ່ງກໍ່ກຳເນີດຂອງທຸກສິ່ງ; ເພາະການເກີດແລະການດັບສູນຂອງສັດທັງຫຼາຍ ຍ່ອມມາຈາກນີ້ແທ້.
This (Prājña) is the Lord of all; this is the omniscient; this is the inner controller; this is the source of all; for indeed the origination and dissolution of beings are from this.