अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्यमव॑तां॒ त्वां द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य इन्द्र॒ आज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑ः
ágnē vēr hótraṃ vēr dū́tyam ávatāṃ tvā́ṃ dyā́vā-pṛthivī́ áva tváṃ dyā́vā-pṛthivī́ sviṣṭa-kṛ́d devébhya índra ā́jyena havíṣā bhū́t svā́hā sáṃ jyótiṣā jyótiḥ
O Agni, verily may thy priestly office, verily thy messengerhood, protect thee; may Heaven and Earth protect thee. Thou, O Heaven and Earth, (and thou) the accomplisher of the well-offered (Agni), for the gods—O Indra—become (effective) with ghee, with oblation: Svāhā! United with light, (be thou) light.
अग्ने । वेः । होत्रम् । वेः । दूत्यम् । अवताम् । त्वाम् । द्यावापृथिवी इति । अव । त्वम् । द्यावापृथिवी इति । स्विष्टकृत् । देवेभ्यः । इन्द्र । आज्येन । हविषा । भूत् । स्वाहा । सम् । ज्योतिषा । ज्योतिः ।