शु॒क्रश्च॒ शुचि॑श्च ग्रैष्मा॑वृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः| ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे | ग्रै॒ष्मा॑वृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रुवे सी॑दतम्
śukráś ca śúciś ca graiṣmā́v ṛtū́ agnér antaḥ śléṣo ’si | kálpetāṃ dyā́vā-pṛthivī́ kálpantām ā́pa óṣadháyaḥ kálpantām agnáyaḥ pṛtháṅ námo jyáiṣṭhyāya sá-vratāḥ | yé agnáyaḥ sámanaso ’ntárā dyā́vā-pṛthivī́ imé | graiṣmā́v ṛtū́ abhí-kalpamānā índram iva devā́ abhí-saṃ-viśantu | táyā devátayā ’ṅgirasvád dhruvé sī́datam
Bright and pure are the two summer seasons: thou art Agni’s inward bond. Let Heaven and Earth be duly fitted; let the Waters be fitted; let the Plants be fitted; let the Fires be fitted—severally, obeisance!—for sovereignty, being of one ordinance. Those Fires that are of one mind between Heaven and Earth—these—when the two summer seasons are being duly fitted, let the Gods enter upon them as upon Indra. With that deity, in Angiras-wise fashion, sit ye down upon the fixed station.
शुक्रः । च । शुचिः । च । ग्रैष्मौ । ऋतू इति । अग्नेः । अन्तः । श्लेषः । असि । कल्पेताम् । द्यावा-पृथिवी इति । कल्पन्ताम् । आपः । ओषधयः । कल्पन्ताम् । अग्नयः । पृथक् । नमः । ज्यैष्ठ्याय । स-व्रताः । ये । अग्नयः । समनसः । अन्तरा । द्यावा-पृथिवी इति । इमे । ग्रैष्मौ । ऋतू इति । अभि-कल्पमानाः । इन्द्रम्-इव । देवाः । अभि-सं-विशन्तु । तया । देवतया । अङ्गिरस्वत् । ध्रुवे । सीदतम् ।