शु॒नᳪ सु फाला॒ वि कृ॑षन्तु॒ भूमि॑ᳪ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः । शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तना॒स्मै
śunáṃ su phālā́ ví kṛṣantu bhū́miṃ śunáṃ kīnā́śā abhí yantu vāháḥ | śunā́sīrā havíṣā tóśamānā supippalā́ óṣadhīḥ kartanā́smāi
Auspiciously may the ploughshares cleave the earth; auspiciously may the ploughmen advance with their teams. O Śunā and Sīrā, rejoicing in the oblation, make for this man plants full of sap and rich in fruit.
शुनम् । सु । फालाः । वि । कृषन्तु । भूमिम् । शुनम् । कीनाशाः । अभि । यन्तु । वाहैः । शुनासीरा । हविषा । तोशमानाः । सु-पिप्पलाः । ओषधीः । कर्तन । अस्मै