बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मᳪहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं॒ वन्दे अग्ने
bódhā me asyá vácaso yaviṣṭha máṃhiṣṭhasya prábhṛtasya svadhāvaḥ | pī́yati tvo ánu tvo gṛṇāti vandā́rus te tanvàṃ vánde agne ||
Take heed of this my speech, O youngest (Agni),—of the most bounteous, duly brought forth, O thou of inherent might. He drinketh of thee; after thee he singeth: the worshipper—thy very body—do I adore, O Agni.
बोधाः । मे । अस्य । वचसः । यविष्ठ । मंहिष्ठस्य । प्रभृतस्य । स्वधावः । पीयति । त्वः । अनु । त्वः । गृणाति । वन्दारुः । ते । तन्वम् । वन्दे । अग्ने