दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं द्यौरज॑नय॑त्सु॒रेता॑:
dṛśānó rukmá urvyā́ ví adyaut durmárṣam ā́yuḥ śríye rucānáḥ | agnír amṛ́to abhavad váyobhir yád enaṃ dyáur ajanayat surétāḥ ||
Seen as a golden splendour, he shone forth over the wide earth, radiant for glory, with life that none may vanquish. Agni became immortal with his vital powers, when Heaven, rich in seed, brought him to birth.
दृशानः । रुक्मः । उर्व्याः । वि । अद्यौत् । दुर्मर्षम् । आयुः । श्रिये । रुचानः । अग्निः । अमृतः । अभवत् । वयोभिः । यदा । एनम् । द्यौः । अजनयत् । सु-रेताः