Sukta 10.3
भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥
भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् । सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥
bhadró bhadráyā sácamāna ā́gāt svásāraṁ jā́ro abhy èti paścā́t | su-praketáir dyúbhir agnír vi-tíṣṭhan rúśad-bhir várṇair abhí rā́mam asthāt ||
Auspicious with the auspicious, he has come; like a lover he follows after his sister. Agni, standing forth with lights of clear perception, takes his place facing delight, clothed in shining colours.
भ॒द्रः । भ॒द्रया॑ । सच॑मानः । आ । अ॒गा॒त् । स्वसा॑रम् । जा॒रः । अ॒भि । ए॒ति॒ । प॒श्चात् । सु॒ऽप्र॒के॒तैः । द्युऽभिः॑ । अ॒ग्निः । वि॒ऽतिष्ठ॑न् । रुश॑त्ऽभिः । वर्णैः॑ । अ॒भि । रा॒मम् । अ॒स्था॒त् ॥भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारम् । जारः । अभि । एति । पश्चात् । सुप्रकेतैः । द्युभिः । अग्निः । वितिष्ठन् । रुशत्भिः । वर्णैः । अभि । रामम् । अस्थात् ॥bhadraḥ | bhadrayā | sacamānaḥ | ā | agāt | svasāram | jāraḥ | abhi | eti | paścāt | su-praketaiḥ | dyu-bhiḥ | agniḥ | vi-tiṣṭhan | ruśat-bhiḥ | varṇaiḥ | abhi | rāmam | asthāt