Ishavasya
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥
यस्मिन् । सर्वाणि । भूतानि । आत्मा । एव । अभूत् । विजानतः । तत्र । कः । मोहः । कः । शोकः । एकत्वम् । अनुपश्यतः ॥
yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ | tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ ||7||
ಯಾವ ಜ್ಞಾನಿಯಲ್ಲಿ ಎಲ್ಲಾ ಭೂತಗಳು ಆತ್ಮನೇ ಆಗಿಬಿಟ್ಟವೋ—ಏಕತ್ವವನ್ನು ನೋಡುವವನಿಗೆ ಅಲ್ಲಿ ಮೋಹವೇನು? ಶೋಕವೇನು?
For the knower in whom all beings have become the Self alone—there, what delusion is there, what sorrow, for one who sees unity?