Brahmavidya
ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥४॥
ऋक्-वेदः । गार्हपत्यम् । च । पृथिवी । ब्रह्म । एव । च । आ-कारस्य । शरीरम् । तु । व्याख्यातम् । ब्रह्म-वादिभिः ॥ ४ ॥
ṛgvedo gārhapatyaṃ ca pṛthivī brahma eva ca | ākārasya śarīraṃ tu vyākhyātaṃ brahmavādibhiḥ ||4||
ಋಗ್ವೇದ, ಗಾರ್ಹಪತ್ಯ ಅಗ್ನಿ, ಪೃಥ್ವಿ ಮತ್ತು ಬ್ರಹ್ಮಾ—ಇವೆಲ್ಲವೂ ‘ಅ’ಕಾರ ಧ್ವನಿಯ ದೇಹವೆಂದು ಬ್ರಹ್ಮವಾದಿಗಳು ವ್ಯಾಖ್ಯಾನಿಸಿದ್ದಾರೆ॥೪॥
The Ṛgveda, the Gārhapatya (fire), the earth, and Brahmā as well—these are explained by the expounders of Brahman as the body of the sound ‘A’.