Amritnada
अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च । अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित् ॥२५॥
अ-घोषम् । अ-व्यञ्जनम् । अ-स्वरम् । च । अ-कण्ठ-तालु-ओष्ठम् । अ-नासिकम् । च । अ-रेफ-जातम् । उभय-उष्म-वर्जितम् । यत् । अक्षरम् । न । क्षरते । कदाचित् ॥
aghoṣam avyañjanam asvaraṃ ca akaṇṭhatālv-oṣṭham anāsikaṃ ca | arephajātaṃ ubhayoṣmavarjitaṃ yad akṣaraṃ na kṣarate kadācit ||25||
ಯಾವ ಅಕ್ಷರ ಅಘೋಷ, ವ್ಯಂಜನರಹಿತ ಮತ್ತು ಸ್ವರರಹಿತ; ಕಂಠ, ತಾಲು, ಓಷ್ಠ ಹಾಗೂ ನಾಸಿಕೋಚ್ಚಾರಣವಿಲ್ಲದ; ‘ರ’ (ರೇಫ)ದಿಂದ ಜನಿತವಲ್ಲ, ಉಷ್ಮಗಳು (ಶ, ಷ, ಸ, ಹ) ಎರಡನ್ನೂ ತ್ಯಜಿಸಿದ—ಆ ಅಕ್ಷರ ಎಂದಿಗೂ ಕ್ಷಯಿಸುವುದಿಲ್ಲ.
Soundless, without consonant, and without vowel; without throat, palate, or lips, and without nasal (articulation); not produced with ‘ra’ (repha), devoid of both sibilants/aspirates— that syllable which never perishes.